महाकाल

Jay BOLENATH Nov 13, 2018

यह कह कर मेरे दुश्मन मुझे छोड़ गए की,
ये तो #महाकाल का भक्त है, पंगा लिया तो #महादेव नंगा कर देंगे 🙏

+109 प्रतिक्रिया 3 कॉमेंट्स • 582 शेयर
kuldeep singh Nov 18, 2018

श्री #महाकालेश्वर #ज्योतिर्लिंग का आज का #भस्मारती श्रृंगार दर्शन श्री #महाकालेश्वर #महाकाल #मंदिर परिसर उज्जैन मध्यप्रदेश से

🔱18 नवम्बर 2018 ( रविवार )🔱

+213 प्रतिक्रिया 13 कॉमेंट्स • 156 शेयर
Prince Trivedi Mar 12, 2019

🔔💥श्रीभैरवसर्वफलप्रदस्तोत्रम् 💥🔔 ॐ भं भैरवाय अनिष्टनिवारणाय स्वाहा । मम सर्वेग्रहाः अनिष्टनिवारणाय स्वाहा । ज्ञानं देहि धनं देहि मम द्रारिद्रयं दुखं निवारणाय स्वाहा । सुतं देहि यशं देहि मम गृह क्लेशं निवारणाय स्वाहा । स्वास्थ्य देहि बलं देहि मम शत्रुनिवारणाय स्वाहा । सिद्धं देहि जयं देहि मम सर्वेॠणनिवारणाय स्वाहा । ॐ भं भैरवाय अनिष्टनिवारणाय स्वाहा । इति श्रीभैरवसर्वफलप्रदस्तोत्रं सम्पूर्णम् । 📯📯📯📯📯📯📯📯📯📯📯📯 🌞🌞॥ श्रीमहाकालभैरवकवचम् ॥ 🌞🌞 श्रीदेव्युवाच । देवदेव महाबाहो भक्तानां सुखवर्धन । केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥ तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये । कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥ श्रीभैरव उवाच । गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् । एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥ महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् । देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥ कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने । सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥ सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् । साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥ ६॥ कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता । कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥ ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥ भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९॥ विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् । एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥ प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् । नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११॥ अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः । सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥ कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥ मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥ तस्य नाम तु देवेशि देवा गायन्ति भावुकाः । शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥ महाकालपदं दत्वा मायाबीजयुगं तथा । कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥ राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा । वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥ महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् । ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥ महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् । धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥ पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः । सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥ इति ते कथितं तुभ्यं देवानामपि दुर्लभम् । अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥ सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः । सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥ महाभीमः सदा पातु सर्वस्थान वल्लभम् । ? कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥ ॥ फल श्रुति॥ पठनात् कालिकादेवी पठेत् कवचमुत्तमम् । श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥ श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥ बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् । त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥ कुमारीं पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥ दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥ तत्र तत्राभयं तस्य भवत्येव न संशयः । वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥ श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु । प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥ इदं कवचमज्ञात्वा कालं यो भजते नरः । नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥ । ॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥ 🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂🍂 🔥🔥श्रीमार्तण्डभैरवाष्टोत्तरशतनामावलिः🔥🔥 ॐ त्र्यम्बकाय नमः । ॐ महादेवाय नमः । ॐ जदीश्वराय नमः । ॐ त्रिपुरारये नमः । ॐ जटाजूटाय नमः । ॐ चन्दनभूषणाय नमः । ॐ चन्द्रशेखराय नमः । ॐ गौरी प्राणेश्वराय नमः । ॐ जगन्नाथाय नमः । ॐ महारुद्राय नमः । १० ॐ भक्तवत्सलाय नमः । ॐ शिववरदमूर्तये नमः । ॐ गिरीजापतये नमः । ॐ पशुपतये नमः । ॐ कर्पूरगौराय नमः । ॐ शङ्कराय नमः । ॐ सर्पभूषणाय नमः । ॐ असुरमर्दनाय नमः । ॐ ज्ञानदाकाय नमः । ॐ त्रिमूर्तये नमः । २० ॐ शिवाय नमः । ॐ मार्तण्डभैरवाय नमः । ॐ नागेन्द्रभूषणाय नमः । ॐ नीलकण्ठाय नमः । ॐ चन्द्रमौलये नमः । ॐ लोकपालाय नमः । ॐ देवेन्द्राय नमः । ॐ नीलग्रीवाय नमः । ॐ शशाङ्कचिन्हाय नमः । ॐ वासुकीभूषणाय नमः । ३० ॐ दुष्टमर्दनदेवेशाय नमः । ॐ उमावराय नमः । ॐ खड्गराजाय नमः । ॐ मृडानीवराय नमः । ॐ पिनाकपाणये नमः । ॐ दशवक्त्राय नमः । ॐ निर्विकाराय नमः । ॐ शूलपाणये नमः । ॐ जगदीशाय नमः । ॐ त्रिपुरहराय नमः । ४० ॐ हिमनगजामाताय नमः । ॐ खड्गपाणये नमः । ॐ व्योमकेशाय नमः । ॐ त्रिशूलधारये नमः । ॐ धूर्जटये नमः । ॐ त्रितापशामकाय नमः । ॐ अनङ्गदहनाय नमः । ॐ गङ्गाप्रियाय नमः । ॐ शशिशेखराय नमः । ॐ वृषभध्वजाय नमः । ५० ॐ प्रेतासनाय नमः । ॐ चपलखड्गधारणाय नमः । ॐ कल्मषदहनाय नमः । ॐ रणभैरवाय नमः । ॐ खड्गधराय नमः । ॐ रजनीश्वराय नमः । ॐ त्रिशूलहस्ताय नमः । ॐ सदाशिवाय नमः । ॐ कैलासपतये नमः । ॐ पार्वतीवल्लभाय नमः । ६० ॐ गङ्गाधराय नमः । ॐ निराकाराय नमः । ॐ महेश्वराय नमः । ॐ वीररूपाय नमः । ॐ भुजङ्गनाथाय नमः । ॐ पञ्चाननाय नमः । ॐ दम्भोलिधराय नमः । ॐ मल्लान्तकाय नमः । ॐ मणिसूदनाय नमः । ॐ असुरान्तकाय नमः । ७० ॐ सङ्ग्रामवरीराय नमः । ॐ वागीश्वराय नमः । ॐ भक्तिप्रियाय नमः । ॐ भैरवाय नमः । ॐ भालचन्द्राय नमः । ॐ भस्मोद्धाराय नमः । ॐ व्याघ्राम्बराय नमः । ॐ त्रितापहाराय नमः । ॐ भूतभव्यत्रिनयनाय नमः । ॐ दीनवत्सलाय नमः । ८० ॐ हयवाहनाय नमः । ॐ अन्धकध्वंसये नमः । ॐ श्रीकण्ठाय नमः । ॐ उदारधीराय नमः । ॐ मुनितापशमनाय नमः । ॐ जाश्वनीलाय नमः । ॐ गौरीशङ्कराय नमः । ॐ भवमोचकाय नमः । ॐ जगदुद्धाराय नमः । ॐ शिवसाम्बाय नमः । ९० ॐ विषकण्ठभूषणाय नमः । ॐ मायाचालकाय नमः । ॐ पञ्चदशनेत्रकमलाय नमः । ॐ दयार्णवाय नमः । ॐ अमरेशाय नमः । ॐ विश्वम्भराय नमः । ॐ कालाग्निरुद्राय नमः । ॐ मणिहराय नमः । ॐ मालूखानाथाय नमः । ॐ जटाजूटगङ्गाधराय नमः । १०० ॐ खण्डेरायाय नमः । ॐ हरिद्राप्रियरूद्राय नमः । ॐ हयपतये नमः । ॐ मैराळाय नमः । ॐ मेघनाथाय नमः । ॐ अहिरुद्राय नमः । ॐ म्हाळसाकान्ताय नमः । ॐ मार्तण्डाय नमः । १०८ इति श्रीमार्तण्डभैरवाष्टोत्तरशतनआमावलिः समाप्ता । 🙏🌹जय श्री महाकाल🙏 🙏🔥जय श्रीमहाकालभैरव🔥🙏 🚩 🙏🌹🙏🚩

+5 प्रतिक्रिया 0 कॉमेंट्स • 1 शेयर

🙏🌹 जय श्री #महाकाल 🌹🙏
श्री #महाकालेश्वर #ज्योतिर्लिंग जी का सांध्य #श्रंगार #आरती दर्शन! 6 नवम्बर 2018 ! ( #मंगलवार )
#कार्तिक_कृष्ण_चतुर्दशी

+136 प्रतिक्रिया 7 कॉमेंट्स • 65 शेयर